SHRI SHIV SHANI MANDIR DHORI

SHRI SHIV SHANI MANDIR DHORI
BILLBOARD

Wednesday, June 19, 2013

शिवषडक्षर स्तोत्र
ऒंकारं बिंदुसंयुक्तं नित्यं
ध्यायंति योगिन l
कामदं मोक्षदं चैव "ऒं"
काराय नमो नमः ll
नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः l
नरा नमंति देवेशं "न"
काराय नमो नमः ll
महादेवं महात्मानं
महाध्यानं परायणम l
महापापहरं देवं "म"
काराय नमो नमः ll
शिवं शांतं जगन्नाथं
लोकानुग्रहकारकम l
शिवमेकपदं नित्यं "शि"
काराय नमो नमः ll
वाहनं वृषभो यस्य
वासुकिः कंठभूषणम l
वामे शक्तिधरं वेदं "व"
काराय नमो नमः ll
यत्र तत्र
स्थितो देवः सर्वव्यापी महेश्वरः l
यो गुरुः सर्वदेवानां "य"
काराय नमो नमः ll
षडक्षरमिदं स्तोत्रं
यः पठेच्च्हिवसंनिधौ l
शिवलोकमवाप्नोति शिवेन
सह मोदते ll
इति श्री रुद्रयामले
उमामहेश्वरसंवादे
षडक्षरस्तोत्रं संपूर्णम ll


--
Amit pathak

No comments:

Post a Comment